Chapter – 4 चतुर्थः पाठः व्यायामः सर्वदा पथ्यः Chaturtha Paatha: Vyayam Sarwada Pathyah NCERT Shemushi Class X (Subject Code-122)
चतुर्थः पाठः
व्यायामः सर्वदा पथ्यः
प्रस्तुत पाठ आयुर्वेद के प्रसिद्ध ग्रन्थ ‘सुश्रुतसंहिता’ के चिकित्सा
स्थान में वर्णित 24वें अध्याय से संकलित है। इसमें आचार्य सुश्रुत ने व्यायाम की
परिभाषा बताते हुए उससे होने वाले लाभों की चर्चा की है। शरीर में सुगठन, कान्ति, स्फूर्ति, सहिष्णुता, नीरोगता आदि
व्यायाम के प्रमुख लाभ हैं।
शरीरायासजननं कर्म व्यायामसंज्ञितम् ।
तत्कृत्वा तु सुखं देहं विमृद्नीयात् समन्ततः ।।1।।
शरीरोपचयः कान्तिर्गात्राणां सुविभक्तता ।
दीप्ताग्नित्वमनालस्यं स्थिरत्वं लाघवं मृजा ।।2।।
श्रमक्लमपिपासोष्ण—शीतादीनां सहिष्णुता ।
आरोग्यं चापि परमं व्यायामादुपजायते ।।3।।
न चास्ति सदृशं तेन किञ्चित्स्थौल्यापकर्षणम् ।
न च व्यायामिनं मर्त्यमर्दयन्त्यरयो बलात् ।।4।।
न चैनं सहसाक्रम्य जरा समधिरोहति ।
स्थिरीभवति मांसं च व्यायामाभिरतस्य च ।।5।।
व्यायामस्विन्नगात्रस्य पद्भ्यामुद्वर्तितस्य च ।
व्याधयो नोपसर्पन्ति वैनतेयमिवोरगाः
वयोरूपगुणौर्हीनमपि कुर्यात्सुदर्शनम् ।।6।।
व्यायामं कुर्वतो नित्यं विरुद्धमपि भोजनम् ।
विदग्धमविदग्धं वा निर्दोषं परिपच्यते ।।7।।
व्यायामो हि सदा पथ्यो बलिनां स्निग्धभोजिनाम् ।
स च शीते वसन्ते च तेषां पथ्यतमः स्मृतः ।।8।।
सर्वेष्वृतुष्वहरहः पुम्भिरात्महितैषिभिः ।
बलस्यार्धेन कर्त्तव्यो व्यायामो हन्त्यतोऽन्यथा ।।9।।
हृदिस्थानास्थितो वायुर्यदा वक्त्रं प्रपघते ।
व्यायामं कुर्वतो जन्तोस्तद्बलार्धस्य लक्षणम् ।।10।।
वयोबलशरीराणि देशकालाशनानि च ।
समीक्ष्य कुर्याद् व्यायाममन्यथा रोगमाप्नुयात् ।।11।।
शब्दार्थाः
1.
आयासः — प्रयत्नः, प्रयासः, श्रमः — परिश्रम
2.
विमृद्नीयात् — मर्दयेत् — मालिश करनी चाहिए
3.
समन्ततः — सर्वतः — पूरी तरह से
4.
उपचयः — अभिवृद्धिः — वृद्धि
5.
कान्तिः — आभा — चमक
6.
गात्रम् — शरीरम् — शरीर
7.
सुविभक्तता — शारीरिकं सौष्ठवम् — शारीरिक
सौन्दर्य
8.
दीप्ताग्नित्वम् — जठराग्नेः प्रवर्धनम् — जठराग्नि का
प्रदीप्त होना अर्थात् भूख लगना
9.
मृजा — स्वच्छीकरणम् — स्वच्छ करना
10.
क्लमः — श्रमजनितं शौथिल्यम् — थकान
11.
पिपासा — पातुम् इच्छा — प्यास
12.
उष्णः — तापः — गर्मी
13.
स्थौल्यम् — अतिमांसलत्वं, पीनता — मोटापा
14.
अपकर्षणम् — दूरीकरणम् — दूर करना, कम करना
15.
अर्दयन्ति — अर्दनं कुर्वन्ति — कुचल डालते हैं
16.
अरयः — शत्रवः — शत्रुगण
17.
आक्रम्य — आक्रमणं कृत्वा — हमला करके
18.
जरा — वार्धक्यम् — बुढ़ापा
19.
अभिरतस्य — संलग्नस्य — तल्लीन होने वाले का
20.
स्विन्नगात्रस्य — स्वेदेन सिक्तस्य शरीरस्य — पसीने से
लथपथ शरीर का
21.
पद्भ्याम् उद्वर्तितस्य — पद्भ्याम् उन्नमितस्य — दोनों पैरों से
ऊपर उठने वाले व्यायाम
22.
वैनतेयः — गरुडः — गरुड़
23.
उरगः — सर्पः — साँप
24.
विदग्धम् — सुपक्वम् — भली प्रकार पके हुए
25.
परिपच्यते — जीर्यते — पच जाता है
26.
अहन् — दिवसः — दिन
27.
पथ्यं — अनुकूलम् — उचित
28.
अहरहः — प्रतिदिनम् — हर रोज
29.
पुम्भिः — पुरुषौः — पुरुषों के द्वारा
30.
अशनानि — आहाराः/भोजनानि — भोजन
अभ्यासः
1. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-
(क)कीदृशं कर्म व्यायामसंज्ञितम् कथ्यते?
(ख) व्यायामात् किं किमुपजायते?
(ग) जरा कस्य सकाशं सहसा न समधिरोहति?
(घ) कियता बलेन व्यायामः कर्तव्यः?
(ङ) अर्धबलस्य लक्षणम् किम्?
2. उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि
पूरयत—
यथा — व्यायामः ........ हीनमपि सुदर्शनं करोति
(गुण)
व्यायामः गुणौः हीनमपि सुदर्शनं करोति।
(क).................... व्यायामः कर्त्तव्यः। (बलस्यार्ध)
(ख) .................... सदृशं किञ्चित् स्थौल्यापकर्षणं
नास्ति। (व्यायाम)
(ग) .................... विना जीवनं नास्ति। (विघा)
(घ) सः .................... खञ्जः अस्ति। (चरण)
(ङ) सूपकारः .................... भोजनं जिघ्रति। (नासिका)
3. स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
(क)शरीरस्य आयासजननं कर्म व्यायामः इति कथ्यते।
(ख) अरयः व्यायामिनं न अर्दयन्ति।
(ग) आत्महितैषिभिः सर्वदा व्यायामः कर्तव्यः।
(घ) व्यायामं कुर्वतः विरुद्धं भोजनम् अपि परिपच्यते।
(ङ) गात्राणां सुविभक्तता व्यायामेन संभवति।
4. निम्नलिखितानाम् अव्ययानाम् रिक्तस्थानेषु प्रयोगं कुरुत-
सहसा, अपि, सदृशं, सर्वदा, यदा, सदा, अन्यथा
(क).................... व्यायामः कर्त्तव्यः।
(ख) .................... मनुष्यः सम्यव्Qरूपेण
व्यायामं करोति तदा सः .................... स्वस्थः तिष्ठति।
(ग) व्यायामेन असुन्दराः .................... सुन्दराः
भवन्ति।
(घ) व्यायामिनः जनस्य सकाशं वार्धक्यं ....................
नायाति।
(ङ) व्यायामेन .................... किञ्चित्
स्थौल्यापकर्षणं नास्ति।
(च) व्यायामं समीक्ष्य एव कर्तव्यम् ....................
व्याधयः आयान्ति।
5. (क) अधोलिखितेषु तद्धितपदेषु प्रकृतिं/प्रत्ययं च पृथव्Q कृत्वा लिखतμ
मूलशब्दः (प्रकृतिः) प्रत्ययः
(क)पथ्यतमः = .................... + ....................
(ख) सहिष्णुता = .................... +
....................
(ग) अग्नित्वम् = .................... +
....................
(घ) स्थिरत्वम् = .................... +
....................
(ङ) लाघवम् = .................... + ....................
(ख) अधोलिखितकृदन्तपदेषु मूलधातुं प्रत्ययं च पृथव्Q कृत्वा लिखतμ
मूलशब्दः + प्रत्ययः
(क)कर्तव्यः ............................... +
...............................
(ख) भोजनम् ............................... +
...............................
(ग) आस्थितः आ + .................... +
...............................
(घ) स्मृतः ............................... +
...............................
(ङ) समीक्ष्य सम् ........................ +
...............................
(च) आक्रम्य आ +...................... +
...............................
(छ) जननम् ............................... +
...............................36
6. अधोलिखितेभ्यः पदेभ्यः उपसर्गान् पृथव्Q कृत्वा लिखत-
यथा— सुदर्शनम् — सु + दर्शनम्
(क) उपजायते ............................... + .................................
(ख) अपकर्षणम् ............................... +
.................................
(ग) अधिरोहति ............................... +
.................................
(घ) प्रपघते ............................... + .................................
(ङ) सुविभक्तता ............................... +
.................................
7. (क) षष्ठ श्लोकस्य भावमाश्रित्य रिक्तस्थानानि पूरयत—
यथा— .................. समीपे उरगाः न .................. एवमेव
व्यायामिनः जनस्य समीपं
.................. न गच्छन्ति। व्यायामः वयोरूपगुणहीनम्
अपि जनम् .................. करोति।
(ख) उदाहरणमनुसृत्य वाच्यपरिवर्तनं कुरुत—
कर्मवाच्यम् कर्तृवाच्यम्
यथा—आत्महितैषिभिः व्यायामः क्रियते आत्महितैषिणः
व्यायामं कुर्वन्ति।
(1) बलवता विरुद्धमपि भोजनं पच्यते
......................................................
(2) जनैः व्यायामेन कान्तिः लभ्यते
......................................................
(3) मोहनेन पाठः पठ्यते
......................................................
(4) लतया गीतं गीयते ......................................................
(ग) ‘व्यायामस्य लाभाः’ इति विषयमधिकृत्य पञ्चवाक्येषु एकम्
अनुच्छेदं लिखत।
योग्यताविस्तारः
(क)सुश्रुतः आयुर्वेदस्य, ‘सुश्रुतसंहिता’ इत्याख्यस्य
ग्रन्थस्य रचयिता। अस्मिन् ग्रन्थे शल्यचिकित्सायाः प्राधान्यमस्ति। सुश्रुतः
शल्यशास्त्रज्ञस्य दिवोदासस्य शिष्यः आसीत्। दिवोदासः सुश्रुतं वाराणस्याम् आयुर्वेदम्
अपाठयत्। सुश्रुतः दिवोदासस्य उपदेशान् स्वग्रन्थेऽलिखत्।
(ख) उपलब्धासु आयुर्वेदीय—संहितासु ‘सुश्रुतसंहिता’ सर्वश्रेष्ठः
शल्यचिकित्साप्रधानो ग्रन्थः। अस्मिन् ग्रन्थे 120 अध्यायेषु क्रमेण सूत्रस्थाने
मौलिकसिद्धान्तानां शल्यकर्मोपयोगि—यन्त्रादीनां, निदानस्थाने प्रमुखाणां रोगाणां, शरीरस्थाने
शरीरशास्त्रस्य चिकित्सास्थाने, शल्यचिकित्सायाः कल्पस्थाने च विषाणां
प्रकरणानि वर्णितानि। अस्य उत्तरतन्त्रे 66 अध्यायाः सन्ति।
(ग) वैनतेयमिवोरगाः - कश्यप ऋषि की दो पत्नियाँ थीं- कद्रु और
विनता। विनता का पुत्र गरुड़ था और कद्रु का पुत्र सर्प। विनता का पुत्र होने के
कारण गरुड़ को वैनतेय कहा जाता है। (विनतायाः अयम् वैनतेयः, अण्
प्रत्यये कृते)। गरुड़ सर्प से अधिक ताकतवर होता है, भयवश साँप गरुड़ के पास जाने का साहस नहीं
करता। यहाँ व्यायाम करने वाले मनुष्य की तुलना गरुड़ से तथा व्याधियों की तुलना
साँप से की गई है। जिस प्रकार गरुड़ के समक्ष साँप नहीं जाता। उसी प्रकार व्यायाम
करने वाले व्यक्ति के पास रोग नहीं फटकते।
भाषिकविस्तारः
गुणवाचक शब्दों से भाव अर्थ में ष्यञ् अर्थात् य प्रत्यय
लगाकर भाववाची पदों का निर्माण किया जाता है। शब्द के प्रथम स्वर में वृद्धि होती
है और अन्तिम अ का लोप होता है।
(क) शूरस्य भावः शौर्यम् — शूर + ष्यञ्
(ख) सुन्दरस्य भावः सौन्दर्यम् — सुन्दर +
ष्यञ्
(ग) सुखस्य भावः सौख्यम् — सुख + ष्यञ्
(घ) विदुषः भावः वैदुष्यम् — विद्वस् + ष्यञ्
(ङ) मधुरस्य भावः माधुर्यम् — मधुर + ष्यञ्
(च) स्थूलस्य भावः स्थौल्यम् — स्थूल +
ष्यञ्
(छ) अरोगस्य भावः आरोग्यम् — अरोग + ष्यञ्
(ज) सहितस्य भावः साहित्यम् — सहित + ष्यञ्
थाल्—प्रत्ययः— ‘प्रकार’ अर्थ में थाल् प्रत्यय का प्रयोग होता है।
जैसे— तेन प्रकारेण — तथा
येन प्रकारेण — यथा
अन्येन प्रकारेण — अन्यथा
सर्व प्रकारेण — सर्वथा
उभय प्रकारेण — उभयथा
भावविस्तारः
(क) शरीरमाघं खलु धर्मसाधनम्
(ख) लाघवं कर्मसामर्थ्यं स्थ्र्यं क्लेशसहिष्णुता।
दोषक्षयोऽग्निवृद्धिश्च व्यायामादुपजायते।।
(ग) यथा शरीरस्य रक्षायै उचितं भोजनम्, उचितश्च
व्यवहारः आवश्यकोऽस्ति तथौव शरीरस्य
स्वास्थ्याय व्यायामः अपि आवश्यकः।
(घ) युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु।
युक्तस्वप्नावबोधस्य योगो भवति दुःखहा।।
(ङ) पक्षिणः आकाशे उंयन्ते तेषाम् उड्डयनमेव तेषां
व्यायामः। पशवोऽपि इतस्ततः पलायन्ते, पलायनमेव तेषां व्यायामः। शौशवे शिशुः
स्वहस्तपादौ चालयति, अयमेव तस्य व्यायामः।
वि+आ+यम् धातोः घञ् प्रत्ययात् निष्पन्नः व्यायाम शब्दः
विस्तारस्य विकासस्य च वाचकः। यतो हि व्यायामेन अगनां विकासः भवति। अतः सुखपूर्वकं
जीवनं यापयितुं मनुष्यैः नित्यं व्यायामः करणीयः।
Comments
Post a Comment