Chapter – 6 षष्ठः पाठः सुभाषितानि Shashtha Paatha: Shubhashitani NCERT Shemushi Class X (Subject Code-122)
षष्ठः पाठः
सुभाषितानि
संस्कृत कृतियों के जिन पघों या पघांशों में
सार्वभौम सत्य को बड़े मार्मिक ढंग से प्रस्तुत किया गया है। उन पघों को सुभाषित
कहते हैं। प्रस्तुत पाठ ऐसे 10 सुभाषितों का संग्रह है जो संस्कृत के
विभिन्न ग्रंथों से संकलित हैं। इनमें परिश्रम का महत्त्व, क्रोध का दुष्प्रभाव, सभी वस्तुओं
की उपादेयता और बुद्धि की विशेषता आदि विषयों पर प्रकाश डाला गया है।
आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः ।
नास्त्युघमसमो बन्धुः कृत्वा यं नावसीदति ।।1।।
गुणी गुणं वेत्ति न वेत्ति निर्गुणो,
बली बलं वेत्ति न वेत्ति निर्बलः ।
पिको वसन्तस्य गुणं न वायसः,
करी च सिंहस्य बलं न मूषकः ।।2।।
निमित्तमुद्दिश्य हि यः प्रकुप्यति,
ध्रुवं स तस्यापगमे प्रसीदति ।
अकारणद्वेषि मनस्तु यस्य वै,
कथं जनस्तं परितोषयिष्यति ।।3।।
उदीरितोऽर्थः पशुनापि गृह्यते,
हयाश्च नागाश्च वहन्ति बोधिताः।
अनुक्तमप्यूहति पण्डितोजनः,
परेङि्गतज्ञानफला हि बुद्धयः ।।4।।
क्रोधो हि शत्रुः प्रथमो नराणां,
देहस्थितो देहविनाशनाय ।
यथास्थितः काष्ठगतो हि वह्निः,
स एव वह्निर्दहते शरीरम् ।।5।।
मृगा मृगैः सङ्गमनुव्रजन्ति,
गावश्च गोभिः तुरगास्तुरगैः ।
मूर्खाश्च मूखरौः सुधियः सुधीभिः,
समान—शील—व्यसनेषु सख्यम्
।।6।।
सेवितव्यो महावृक्षः फलच्छायासमन्वितः ।
यदि दैवात् फलं नास्ति छाया केन निवार्यते ।।7।।
अमन्त्रमक्षरं नास्ति, नास्ति मूलमनौषधम् ।
अयोग्यः पुरुषः नास्ति योजकस्तत्र दुर्लभः ।।8।।
संपत्तौ च विपत्तौ च महतामेकरूपता ।
उदये सविता रक्तो रक्तश्चास्तमये तथा ।।9।।
विचित्रे खलु संसारे नास्ति किञ्चिन्निरर्थकम् ।
अश्वश्चेद् धावने वीरः भारस्य वहने खरः ।।10।।
शब्दार्थाः
1.
अवसीदति — दुःखम् अनुभवति — दुःखी होता है
2.
वेत्ति — जानाति — जानता है
3.
वायसः — काकः — कौआ
4.
करी — गजः — हाथी
5.
निमित्तः — कारणम् — कारण
6.
प्रकुप्यति — अतिकोपं करोति — अत्यधिक
क्रोध करता है
7.
धु्रवं — निश्चितम् — निश्चित रूप से
8.
अपगमे — समाप्ते — समाप्त होने पर
9.
प्रसीदति — प्रसन्नः भवति — प्रसन्न होता है
10.
अकारणद्वेषिमनः — अकारणं द्वेषं करोति इति — अकारण ही
द्वेष करने वाला
11.
अकारणद्वेषि तद्वद्मनः यस्य सः मन है जिसका
12.
परितोषयिष्यति — परितोषं दास्यति — सन्तुष्ट
करेगा
13.
उदीरितः — उक्तः कथितः — कहा हुआ
14.
गृह्यते — प्राप्यते — प्राप्त किया जाता है
15.
हयाः — अश्वाः — घोड़े
16.
नागाः — हस्तिनः — हाथी
17.
ऊहति — निर्धारयति — अंदाजा लगाता है
18.
इग्तिज्ञानफलाः — इङ्गितं ज्ञानम्, इङ्गितज्ञानमेव
फलं यस्याः सा, ताः— सटेतजन्य ज्ञान रूपी फल वाले
19.
पण्डितः — विद्वान्, बुद्धिमान् — बुद्धिमान्
20.
वह्निः — अग्निः — आग
21.
दहते — ज्वालयति — जलाता है
22.
अनुव्रजन्ति — पश्चात् गच्छन्ति — पीछे—पीछे जाते
हैं,अनुसरण करते
हैं
23.
तुरगाः — अश्वाः — घोडे़
24.
सुधियः — विद्वांसः — विद्वान् मनीषी
25.
व्यसनेषु — स्वभावे — आदत, स्वभाव में
26.
सख्यम् — मैत्री — मित्रता
27.
सेवितव्यः — आश्रयितव्यः — आश्रय लेना चाहिए
28.
दैवात् — भाग्यात् — भाग्य से
29.
निवार्यते — निवारणं क्रियते — रोका जाता है
30.
अमन्त्रम् — न मन्त्रं, अमन्त्रमक्षरं इति — मन्त्रहीन
31.
मन्त्र — मननयोग्यम् — मनन योग्य/सार्थक/सारवान्
32.
मूलम् — अधःभागम् — जड़
33.
औषधम् — औषधि+अण् (वनस्पति निर्मितम्)— दवा, जड़ी—बूटी
34.
योजकः — (युज् +ण्वुल्) — जोड़ने वाला
35.
सविता — सूर्यः — सूर्य
36.
रक्तः — — लाल
37.
खरः — गर्दभः — गधा
श्लोकानाम् अन्वयः—
1. मनुष्याणां शरीरस्थः महान् शत्रुः आलस्यम्।
उघमसमः बन्धुः न अस्ति यं कृत्वा (मनुष्यः) न अवसीदति।
2. गुणी गुणं वेत्ति, निर्गुणः
(गुणं) न वेत्ति, बली बलं वेत्ति, निर्बलः
(बलं) न वेत्ति, वसन्तस्य गुणं पिकः (वेत्ति), वायसः न (वेत्ति), सिंहस्य बलं
करी (वेत्ति), मूषकः न।
3. यः निमित्तम् उद्दिश्य प्रकुप्यति सः तस्य
अपगमे ध्रुवं प्रसीदति यस्य मनः अकारणद्वेषि (अस्ति) तं जनः कथं परितोषयिष्यति।
4. पशुना अपि उदीरितः अर्थः गृह्यते, हयाः नागाः
च बोधिताः (भारं) वहन्ति, पण्डितः जनः अनुक्तम् अपि ऊहति बुद्धयः
परेग्तिज्ञानफलाः भवन्ति।
5. नराणां देहविनाशनाय प्रथमः शत्रुः देहस्थितः
क्रोधः। यथा काष्ठगतः स्थितः वह्निः काष्ठम् एव दहते (तथ्ौव शरीरस्थः क्रोधः)
शरीरं दहते ।
6. मृगाः मृगैः सह, गावश्च
गोभिः सह, तुरगाः
तुरग्ैः सह, मूर्खाः मूखर््ौः सह, सुधियः सुधीभिः सह अनुव्रजन्ति। सख्यम्
समानशीलव्यसनेषु (भवति)।
7. फलच्छाया समन्वितः महावृक्षः सेवितव्यः।
दैवात् यदि फलं नास्ति (वृक्षस्य) छाया केन निवार्यते।
8. अमन्त्रम् अक्षरं नास्ति, अनौषधम्
मूलं नास्ति, अयोग्यः पुरुषः नास्ति, तत्र योजकः दुर्लभः।
9. महताम् संपत्तौ विपत्तौ च एकरूपता भवति।
यथा— सविता उदये रक्तः भवति, तथा अस्तमये
च रक्तः भवति।
10. विचित्रे संसारे खलु किञ्चित् निरर्थकं
नास्ति। अश्वः चेत् धावने वीरः, (तर्हि) भारस्य वहने खरः (वीरः) अस्ति।
अभ्यासः
1. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत—
(क)केन समः बन्धुः नास्ति?
(ख) वसन्तस्य गुणं कः जानाति।
(ग) बुद्धयः कीदृश्यः भवन्ति?
(घ) नराणां प्रथमः शत्रुः कः?
(ङ) सुुधियः सख्यं केन सह भवति?
(च) अस्माभिः कीदृशः वृक्षः सेवितव्यः?
2. अधोलिखिते अन्वयद्वये रिक्तस्थानपूर्तिं कुरुतμ
(क)यः .................. उद्दिश्य प्रकुप्यति
तस्या .................. सः ध्रुवं प्रसीदति। यस्य मनः
अकारणद्वेषि अस्ति, तं कथं .................. परितोषयिष्यति?
(ख) .................. खलु संसारे
.................. निरर्थकम् नास्ति। अश्वः चेत् .................. वीरः,
खरः .................. (वीरः) (भवति)
3. अधोलिखितानां पदानां विलोमपदानि पाठात् चित्वा लिखत—
(क)प्रसीदति ..................
(ख) मूर्खः ..................
(ग) बली ..................
(घ) सुलभः ..................
(ङ) संपत्तौ ..................
(च) अस्ते ..................
(छ) सार्थकम् ..................
4. अधोलिखितानां वाक्यानां कृते समानार्थकान् श्लोकांशान्
पाठात् चित्वा लिखत—
(क)विद्वान् स एव भवति यः अनुक्तम् अपि तथ्यं
जानाति।
(ख) मनुष्यः समस्वभावैः जनैः सह मित्रतां
करोति।
(ग) परिश्रमं कुर्वाणः नरः कदापि दुःखं न
प्राप्नोति।
(घ) महान्तः जनाः सर्वदैव समप्रकृतयः भवन्ति।
5. यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत—
(क)गुणी गुणं जानाति। (बहुवचने)
(ख) पशुः उदीरितं अर्थं गृह्णाति।
(कर्मवाच्ये)
(ग) मृगाः मृगैः सह अनुव्रजन्ति। (एकवचने)
(घ) कः छायां निवारयति। (कर्मवाच्ये)
6. सन्धिं/सन्धिविच्छेदं कुरुत—
(क) न + अस्ति + उघमसमः — .............
(ख) ....... + ...... — तस्यापगमे
(ग) अनुक्तम् + अपि + ऊहति — .............
(घ) ...... + .......... — गावश्च
(ङ) ...... + .......... — नास्ति
(च) रक्तः + च + अस्तमये — .............
(छ) ....... + ........... — योजकस्तत्र
7. संस्कृतेन वाक्यप्रयोगं कुरुत—
(क)वायसः ...................
(ख) निमित्तम् ...................
(ग) सूर्यः ...................
(घ) पिकः ...................
(ङ) वह्निः ...................
परियोजनाकार्यम्
(क) उद्यमस्य महत्त्वं वर्णयतः पञ्चश्लोकान्
लिखत।
अथवा
कापि कथा या भवखिः पठिता स्यात् यस्यां उघमस्य महत्त्वं
वर्णितम् तां स्वभाषया लिखत।
(ख) निमित्तमुद्दिश्य यः प्रकुप्यति धु्रवं स
तस्यापगमे प्रसीदति। यदि भवता कदापि ईदृशःअनुभवः कृतः तर्हि स्वभाषया लिखत।
योग्यताविस्तारः
1. तत्पुरुष समास
शरीरस्थः — शरीरे स्थितः
गृहस्थः — गृहे स्थितः
मनस्स्थः — मनसि स्थितः
तटस्थः — तटे स्थितः
कूपस्थः — कूपे स्थितः
वृक्षस्थः — वृक्षे स्थितः
विमानस्थः — विमाने स्थितः
2. अव्ययीभाव समास
निर्गुणम् — गुणानाम् अभावः
निर्मक्षिकम् — मक्षिकाणाम् अभावः
निर्जलम् — जलस्य अभावः
निराहारम् — आहारस्य अभावः
3. पर्यायवाचिपदानि—
शत्रुः — रिपुः, अरिः, वैरिः
मित्रम् — सखा, बन्धुः, सुहृद्
वह्निः — अग्निः, दाहकः, पावकः
सुधियः — विद्वांसः, विज्ञाः, अभिज्ञाः
अश्वः — तुरगः, हयः, घोटकः
गजः — करी, हस्ती, दन्ती, नागः।
वृक्षः — द्रुमः, तरुः, महीरुहः।
सविता — सूर्यः, मित्रः, दिवाकरः, भास्करः।
मन्त्रः ‘मननात् त्रायते इति मन्त्रः।’
अर्थात् वे शब्द जो सोच—विचार कर
बोले जाएँ। सलाह लेना, मन्त्रणा करना। मन्त्र्+अच् (किसी भी देवता
को सम्बोधित) वैदिक सूक्त या प्रार्थनापरक वैदिक मन्त्र, वेद का पाठ
तीन प्रकार का है— यदि छन्दोबद्ध और उच्च स्वर से बोला जाने
वाला है तो ‘ऋक्’ है, यदि गघमय और मन्दस्वर में बोला जाने वाला है
तो ‘यजुस्’ है, और यदि छन्दोबद्धता के साथ गेयता है तो ‘सामन्’ है
(प्रार्थनापरक) यजुस् जो किसी देवता को उद्दिष्ट करके बोला गया हो— ‘ओं नमः
शिवाय’ आदि।
पंचतंत्र में भी मंत्रणा, परामर्श, उपदेश तथा गुप्त मंत्रणा के अर्थ में इस शब्द
का प्रयोग हुआ है।
Comments
Post a Comment