Chapter – 10 दशमः पाठः अन्योक्तयः Dasham Paatha: Anyoktaya NCERT Shemushi Class X (Subject Code-122)
दशमः पाठः
अन्योक्तयः
अन्योक्ति अर्थात् किसी की प्रशंसा अथवा निन्दा अप्रत्यक्ष
रूप से अथवा किसी बहाने से करना। जब किसी प्रतीक या माध्यम से किसी के गुण की
प्रशंसा या दोष की निन्दा की जाती है, तब वह पाठकों के लिए अधिक ग्राह्य होती है।
प्रस्तुत पाठ में ऐसी ही सात अन्योक्तियों का सटलन है जिनमें राजहंस, कोकिल, मेघ, मालाकार, सरोवर तथा
चातक के माध्यम से मानव को सद्वृत्तियों एवं सत्कर्मों के प्रति प्रवृत्त होने का
संदेश दिया गया है।
एकेन राजहंसेन या शोभा सरसो भवेत् ।
न सा बकसहस्रेण परितस्तीरवासिना ।।1।।
भुक्ता मृणालपटली भवता निपीता
न्यम्बूनि यत्र नलिनानि निषेवितानि ।
रे राजहंस! वद तस्य सरोवरस्य,
कृत्येन केन भवितासि कृतोपकारः ।। 2।।
तोयैरल्पैरपि करुणया भीमभानौ निदाघे,
मालाकार! व्यरचि भवता या तरोरस्य पुष्टिः ।
सा किं शक्या जनयितुमिह प्रावृषेण्येन वारां,
धारासारानपि विकिरता विश्वतो वारिदेन ।।3।।
आपेदिरेऽम्बरपथं परितः पतगः,
भृग रसालमुकुलानि समाश्रयन्ते ।
सटोचमञ्चति सरस्त्वयि दीनदीनो,
मीनो नु हन्त कतमां गतिमभ्युपैतु ।। 4।।
एक एव खगो मानी वने वसति चातकः ।
पिपासितो वा म्रियते याचते वा पुरन्दरम् ।।5।।
आश्वास्य पर्वतकुलं तपनोष्णतप्त—
मुद्दामदावविधुराणि च काननानि ।
नानानदीनदशतानि च पूरयित्वा,
रिक्तोऽसि यज्जलद! सैव तवोत्तमा श्रीः ।।6।।
रे रे चातक! सावधानमनसा मित्र क्षणं श्रूयता—
मम्भोदा बहवो हि सन्ति गगने सर्वेऽपि नैतादृशाः ।
केचिद् वृष्टिभिरार्द्रयन्ति वसुधां गर्जन्ति केचिद् वृथा,
यं यं पश्यसि तस्य तस्य पुरतो मा ब्रूहि दीनं वचः ।।7।।
शब्दार्थाः
1.
सरसः — तडागस्य — तालाब का
2.
बकसहस्रेण — बकानां सहस्रेण — हजारों बगुलों से
3.
परितः — सर्वतः — चारों ओर
4.
तीरवासिना — तटनिवासिना — तटवासी के द्वारा
5.
मृणालपटली — कमलनालसमूहः — कमलनाल का समूह
6.
निपीतानि — निः शेषेण पीतानि — भलीभाँति पीया गया
7.
अम्बूनि — जलानि — जल
8.
नलिनानि — कमलानि — कमलों को
9.
निषेवितानि — सेवितानि — सेवन किये गये
10.
भविता — भविष्यति — होगा
11.
कृत्येन — कार्येण — कार्य से
12.
कृतोपकारः — कृतः उपकारः येन सः — उपकार किया हुआ(प्रत्युपकार करने वाला)
13.
तोयैः — जलैः — जल से
14.
भीमभानौ — भीमःभानुः यस्मिन् — ग्रीष्मकाल में (सूर्य के अत्यधिक सः भीमभानुः
तस्मिन् तपने पर)
15.
निदाघे — ग्रीष्मकाले — ग्रीष्मकाल में
16.
मालाकार — हे मालाकार! — हे माली!
17.
पुष्टिः — पुष्टता, वृद्धिः — पोषण
18.
जनयितुम् — उत्पादयितुम् — उत्पन्न करने के लिए
19.
प्रावृषेण्येन — वर्षाकालिकेन — वर्षाकालिक
20.
वारिदेन — जलदेन — बादल के द्वारा
21.
धारासारान् — धाराणां आसारान् — धाराओं का
प्रवाह
22.
वाराम् — जलानाम् — जलों के
23.
विकिरता — (जलं)वर्षयता — (जल) बरसाते हुए
24.
आपेदिरे — प्राप्तवन्तः — प्राप्त कर लिए
25.
अम्बरपथम् — आकाशमार्गम् — आकाश—मार्ग को
26.
पतङ्गाः — खगाः — पक्षी
27.
भृङ्गाः — भ्रमराः — भौंरे, भँवरे
28.
रसालमुकुलानि — रसालानां मुकुलानि — आम की मञ्जरियों
को
29.
सङकेचम् अञ्चति — सटोचं गच्छति — संकुचित होने पर
30.
मीनः — मत्स्यः — मछली
31.
पुरन्दरम् — इन्द्रम् — इन्द्र को
32.
मानी — स्वाभिमानी — स्वाभिमानी
33.
अभ्युपैतु — प्राप्नोतु — प्राप्त करें
34.
आश्वास्य — समाश्वास्य — संतुष्ट करके
35.
पर्वतकुलम् — पर्वतानां कुलम् — पर्वतों के
समूह को
36.
तपनोष्णतप्तम् — तपनस्य उष्णेन तप्तम्, — सूर्य की गर्मी
से तपे हुए को
37.
उद्दामदावविधुराणि — उन्नतकाष्ठरहितानि — ऊँचे
काष्ठों (वृक्षों) से रहित
38.
कोनानानदीनदशतानि — नाना नघः,नदानां शतानि च — अनेक नदियों और सैकड़ों नदों को
39.
काननानि — वनानि — वन
40.
पूरयित्वा — पूर्णं कृत्वा — पूर्ण करके (भरकर)
41.
पिपासितः — तृषितः — प्यासा
42.
सावधानमनसा — ध्यानेन — ध्यान से
43.
अम्भोदाः — मेघाः — बादल
44.
गगने — आकाशे — आकाश में
45.
आर्द्रयन्ति — जलेन क्लेदयन्ति — जल से भिगो
देते हैं
46.
वसुधाम् — पृथ्वीम् — पृथ्वी को
47.
गर्जन्ति — गर्जनं (ध्वनिम्) कुर्वन्ति — गर्जना करते हैं
48.
पुरतः — अग्रे — आगे, सामने
सर्वासाम् अन्योक्तीनाम् अन्वयाः-
1. एकेन राजहंसेन सरसः या शोभा भवेत्। परितः
तीरवासिना बकसहस्रेण सा (शोभा) न (भवति)।।
2. यत्र भवता मृणालपटली भुक्ता, अम्बूनि
निपीतानि नलिनानि निषेवितानि। रे राजहंस! तस्य सरोवरस्य केन कृत्येन कृतोपकारः
भविता असि, वद।।
3. हे मालाकार! भीमभानौ निदाघे अल्पैः तोयैः अपि
भवता करुणया अस्य तरोः या पुष्टिः व्यरचि। वाराम् प्रावृषेण्येन विश्वतः
धारासारान् अपि विकिरता वारिदेन इह जनयितुम् सा (पुष्टिः) किम् शक्या।।
4. पतगः परितः अम्बरपथम् आपेदिरे, भृगः
रसालमुकुलानि समाश्रयन्ते। सरः त्वयि सटोचम् अञ्चति, हन्त दीनदीनः मीनः नु कतमां गतिम्
अभ्युपैतु।।
5. एक एव मानी खगः चातकः वने वसति। वा पिपासितः
म्रियते पुरन्दरम् याचते वा।।
6. तपनोष्णतप्तम् पर्वतकुलम् आश्वास्य
उद्दामदावविधुराणि काननानि च (आश्वास्य) नानानदीनदशतानि पूरयित्वा च हे जलद! यत्
रिक्तः असि तव सा एव उत्तमा श्रीः।।
7. रे रे मित्र चातक! सावधानमनसा क्षणं
श्रूयताम्, गगने हि बहवः अम्भोदाः सन्ति, सर्वे अपि एतादृशाः न (सन्ति) केचित् धरिणीं
वृष्टिभिः आर्द्रयन्ति, केचिद् वृथा गर्जन्ति, (त्वम्)
यं यं पश्यसि तस्य तस्य पुरतः दीनं वचः मा ब्रूहि।।
अभ्यासः
1. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-
(क) सरसः शोभा केन भवति?
(ख) चातकः कं याचते?
(ग) मीनः कदा दीनां गतिं प्राप्नोति?
(घ) कानि पूरयित्वा जलदः रिक्तः भवति?
(ङ) वृष्टिभिः वसुधां के आर्द्रयन्ति?
2. अधोलिखितवाक्येषु रेखाङिक्तपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
(क) मालाकारः तोयैः तरोः पुष्टिं करोति।
(ख) भृङ्गाः रसालमुकुलानि समाश्रयन्ते।
(ग) पतङ्गाः अम्बरपथम् आपेदिरे।
(घ) जलदः नानानदीनदशतानि पूरयित्वा
रिक्तोऽस्ति।
(ङ) चातकः वने वसति।
(च) अम्भोदाः वृष्टिभिः वसुधां आर्द्रयन्ति।
3. उदाहरणमनुसृत्य सन्धिं/सन्धिविच्छेदं वा कुरुत—
(1) यथा — अन्य+ उक्तयः = अन्योक्तयः
(क) ................. + ................. =
निपीतान्यम्बूनि
(ख) ................. + उपकारः = कृतोपकारः
(ग) तपन + ................. = तपनोष्णतप्तम्
(घ) तव + उत्तमा = .................
(ङ) न + एतादृशाः = .................
(2) यथा — पिपासितः + अपि = पिपासितोऽपि
(क) ................. + ................. =
कोऽपि
(ख) ................. + ................. =
रिक्तोऽसि
(ग) मीनः + अयम् = .................
(घ) ................. + आर्द्रयन्ति =
वृष्टिभिरार्द्रयन्ति
(3) यथा — सरसः + भवेत् = सरसोभवेत्
(क) खगः + मानी = .................
(ख) ................. + नु = मीनो नु
(पअ) यथा — मुनिः + अपि = मुनिरपि
(क) तोयैः + अल्पैः = ....................
(ख) .................... + अपि = अल्पैरपि
(ग) तरोः + अपि = ....................
4. उदाहरणमनुसृत्य अधोलिखितैः विग्रहपदैः समस्तपदानि रचयत—
विग्रहपदानि समस्त पदानि
यथा — पीतं च तत् पटजम् = पीतपटजम्
(क) राजा च असौ हंसः =
....................................
(ख) भीमः च असौ भानुः =
....................................
(ग) अम्बरम् एव पन्थाः =
....................................
(घ) उत्तमा च इयम् श्रीः =
....................................
(ङ) सावधानं च तत् मनः, तेन =
....................................
5. उदाहरणमनुसृत्य निम्नलिखिताभिः धातुभिः सह यथानिर्दिष्टान्
प्रत्ययान् संयुज्य शब्दरचनां कुरुत—
धातुः क्त्वा क्तवतु तव्यत् अनीयर्
(क) पठ् पठित्वा पठितवान् पठितव्यः पठनीयः
(ख) गम् ............ ............
............ ............
(ग) लिख् ............ ............
............ ............
(घ) कृ ............ ............
............ ............
(ङ) ग्रह् ............ ............
............ ............
(च) नी ............ ............
............ ............
6. पाठमनुसृत्य अधोलिखितानां मूलशब्दानां यथानिर्दिष्टेषु
विभक्तिवचनेषु रूपाणि लिखत—
मूलशब्दाः विभक्तिवचने शब्दरूपाणि
यथा — राजहंस तृतीयैकवचने राजंहसेन
(क) एक (पुँल्लिग्) तृतीयैकवचने
............................
(ख) तरु षष्ठ्यैकवचने
............................
(ग) वन सप्तम्यैकवचने
............................
(घ) पुरन्दर द्वितीयैकवचने
............................
(ङ) करुणा तृतीयैकवचने
............................
(च) जलद सम्बोधनैकवचने
............................
(छ) सरस् (सरः) षष्ठ्यैकवचने
............................
7. अधोलिखितयोः श्लोकयोः भावार्थं हिन्दीभाषया आंग्लभाषया वा
लिखत—
(क) आपेदिरे ....................... कतमां
गतिमभ्युपैति।
(ख) आश्वास्य ....................... सैव
तवोत्तमा श्रीः।।
योग्यताविस्तारः
पाठपरिचयः
अन्येषां कृते या उक्तयः कथ्यन्ते ता उक्तयः (अन्योक्तयः)
अत्र पाठे सटलिता वर्तन्ते। अस्मिन् पाठे षष्ठश्लोकम् सप्तमश्लोकम् च अतिरिच्य ये
श्लोकाः सन्ति ते पण्डितराजजगन्नाथस्य ट्टभामिनीविलास’ इति गीतिकाव्यात्
सटलिताः सन्ति। षष्ठः श्लोकः महाकवि माघस्य ट्टशिशुपालवधम्’ इति
महाकाव्यात् गृहीतः अस्ति। सप्तमः श्लोकः महाकविभर्तृहरेः
नीतिशतकात् उद्धृतः अस्ति।
कविपरिचयः
पण्डितराजजगन्नाथः संस्कृतसाहित्यस्य मूर्धन्यः सरसश्च कविः
आसीत्। सः शाहजहाँ नामकेन मुगल शासकेन स्वराजसभायां सम्मानितः।
पण्डितराजजगन्नाथस्य त्रयोदश कृतयः प्राप्यन्ते।
(1)गगलहरी (2) अमृतलहरी (3) सुधालहरी (4) लक्ष्मीलहरी (5) करुणालहरी (6) आसफविलासः(7) प्राणाभरणम् (8) जगदाभरणम् (9) यमुनावर्णनम् (10) रसगगधरः
(11) भामिनीविलासः
(12) मनोरमाकुचमर्दनम्
(13) चित्रमीमांसाखण्डनम्।
एतेषु ग्रन्थेषु ‘भामिनीविलासः’ इति तस्य
विविधपघानां संग्रहः।
महाकविमाघः— महाकविमाघस्य एकमेव महाकाव्यं प्राप्यते “शिशुपालवधम्” इति।
भर्तृहरिः— महाकविभर्तृहरेः त्रीणि शतकानि सन्ति, नीतिशतकम्, शृगरशतकम्
वैराग्यशतकं च।
अधोदत्ताः विविधविषयकाः श्लोकाः अपि पठनीयाः स्मरणीयाश्च—
हंसः — हंसः श्वेतः बकः श्वेतः को भेदो बकहंसयोः ।
नीरक्षीरविभागे तु हंसो हंसः बको बकः ।।
एकमेव पर्याप्तम् — एकेनापि सुपुत्रेण सिंही स्वपिति निर्भयम् ।
सहैव दशभिः पुत्रौः भारं वहति रासभी ।।
पिकः — काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः ।
वसन्तसमये प्राप्ते काकः काकः पिकः पिकः ।।
चातक वर्णनम् — यघपि सन्ति बहूनि सरांसि,
स्वादुशीतल सुरभि पयांसि ।
चातकपोतस्तदपि च तानि,
त्यक्त्वा याचति जलदजलानि ।।
Comments
Post a Comment